|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.160. अध्यायः 160
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति विप्रवचनस्यैहिकपारत्रिकश्रेयस्साधनत्वकथनम्॥ 1 ॥ तथाऽनशनस्य महातपस्त्वकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
दानं बहुविधाकारं शान्तिः सत्यमहिंसितम्।
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य वाऽपि यत्॥ 13-160-1(87575)
पितामहस्य विदितं किमन्यत्तपसो बलात्।
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि॥ 13-160-2(87576)
भीष्म उवाच। 13-160-3x(7362)
तपसः प्रक्षयो यावत्ताल्लोको युधिष्ठिर।
मतं ममात्र कौन्तेय तपो नानशनात्परम्॥ 13-160-3(87577)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः॥ 13-160-4(87578)
अतीत्य सुरलोकं च गवां लोकं च भारत।
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम्॥ 13-160-5(87579)
तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथम्।
कथं भगीरथाऽऽगास्त्वमिमं लोकं दुरासदम्॥ 13-160-6(87580)
न हि देवा न गन्धर्वा न मनुष्या भगीरथ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः॥ 13-160-7(87581)
भगीरथ उवाच। 13-160-8x(7363)
निश्शङ्कमन्नमददां ब्राह्मणोभ्यः
शतं सहस्राणि सदैवतानाम्।
ब्राह्मं व्रतं नित्यमास्थाय विद्व-
न्न त्वेवाहं तस्य फलादिहागाम्॥ 13-160-8(87582)
दशैकरात्रान्दशपञ्चरात्रा-
नेकादशैकादशकान्क्रतूंश्च।
ज्योतिष्टोमानां च शतं यदिष्टं
फलेन तेनापि च नागतोऽहम्॥ 13-160-9(87583)
यच्चावसं जाह्नवीतीरनित्यः
शतं समास्तप्यमानस्तपोऽहम्।
अदां च तत्राश्वतरीसहस्रं
नारीपुरं न च तेनाहमागाम्॥ 13-160-10(87584)
दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम्।
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः॥ 13-160-11(87585)
सुवर्णचन्द्रोत्तमधारिणीनां
कन्योत्तमानामददं सहस्रम्।
षष्टिं सहस्राणि विभूषितानां
जाम्बूनदैराभरणैर्न तेन॥ 13-160-12(87586)
दशार्बुदान्यददं गोसवेज्या-
स्वेकैकशो दश गा ओकनाथ।
समानवत्साः पयसा समन्विताः
सुवर्णकांस्योपदुहा न तेन॥ 13-160-13(87587)
आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्।
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च॥ 13-160-14(87588)
दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह।
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः॥ 13-160-15(87589)
वाजिनां बाह्लिजातानामयुतान्यददं दश।
कर्काणां हेममालानां न च तेनाहमागतः॥ 13-160-16(87590)
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम्।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः॥ 13-160-17(87591)
वाजिनां श्यामकर्णानां हरितानां पितामह।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च॥ 13-160-18(87592)
ईषादन्तान्महाकायान्काञ्चतस्रग्विभूषितान्।
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च॥ 13-160-19(87593)
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः।
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश॥ 13-160-20(87594)
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः।
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः॥ 13-160-21(87595)
वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम्।
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह॥ 13-160-22(87596)
सहस्रं निष्ककण्ठानामददं दक्षिणामहम्।
विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह।
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः॥ 13-160-23(87597)
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते।
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते॥ 13-160-24(87598)
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते।
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम्॥ 13-160-25(87599)
तपस्वी नियताहारः शममास्थाय वाग्यतः।
दीर्घकालं हिमवति गङ्गार्थमचरं तपः॥ 13-160-26(87600)
मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः।
न तेनाप्यहमागच्छं फलेनेह पितामह॥ 13-160-27(87601)
शम्याक्षेपैरयजं यच्च देवा-
ञ्शतैः क्रतूनामयुतैश्चापि यच्च।
त्रयोदशद्वादशाहैश्च देव
सपौण्डरीकैर्न च तेषां फलेन॥ 13-160-28(87602)
अष्टौ सहस्राणि ककुद्मिनामहं
शुक्लर्षभाणामददं द्विजेभ्यः।
एकैकं वै काञ्चनं शृङ्गमेभ्यः
पत्नीश्चैषामददं निष्ककण्ठीः॥ 13-160-29(87603)
हिरण्यरत्ननिचयानददं रत्नपर्वतान्।
धनधान्यैः समृद्धांश्च ग्रामाञ्शतसहस्रशः॥ 13-160-30(87604)
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः।
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च॥ 13-160-31(87605)
एकादशाहैरयजं सदक्षिणै-
र्द्विर्द्वादशाहैरश्वमेधैश्च देव।
गवां धनैः षोडशभिश्च ब्रह्मं-
स्तेषां फलेनेह न चागतोऽस्मि॥ 13-160-32(87606)
निष्कैककण्ठमददं योजनायतं
तद्विस्तीर्णं काञ्चनपादपानाम्।
वनं चूतानां रत्नविभूषितानां
नचैव तेषामागतोऽहं फलेन॥ 13-160-33(87607)
तुरायणं हि व्रतमप्यधृष्य-
मक्रोधनोऽकरवं त्रिंशदब्दान्।
शतं गवामष्टशतानि चैव
दिनेदिने ह्यददं ब्राह्मणेभ्यः॥ 13-160-34(87608)
पयस्विनीनामथ रोहिणीनां
तथैवान्याननडुहो लोकनाथ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश
नेहागतस्तेन फलेन चाहम्॥ 13-160-35(87609)
`शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन्।'
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा।
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः॥ 13-160-36(87610)
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः।
न चैव तेषां देवेश फलेनाहमिहागमम्॥ 13-160-37(87611)
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे।
गवां शतानामयुतमददं न च तेन वै॥ 13-160-38(87612)
इन्द्रेण गुह्यं निहितं वै गुहायां
यद्भार्गवस्तपसेहाभ्यविन्दत्।
जाज्वल्यमानमुशनस्तेजसेह
तत्साधयामासमहं वरेण्य॥ 13-160-39(87613)
`ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत्।'
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते।
`पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः॥' 13-160-40(87614)
सहस्रमृषयश्चासन्ये वै तत्र समागताः।
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो॥ 13-160-41(87615)
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो।
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा॥ 13-160-42(87616)
कामं यथावद्विहितं विधात्रा
पृष्टेन वाच्यं तु मया यथावत्।
तपो हि नान्यच्चानशनान्मतं मे
नमोस्तु ते देववर प्रसीद॥ 13-160-43(87617)
भीष्म उवाच। 13-160-44x(7364)
इत्युक्तवन्तं ब्रह्मि तु राजानं स भगीरथम्।
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा॥ 13-160-44(87618)
तस्मादनशनैर्युक्तो विप्रान्पूज्य नित्यदा।
विप्राणां वचनात्सर्वं परत्रेहं च सिध्यति॥ 13-160-45(87619)
वासोभिरन्नैर्गोभिस्च शुभैर्नैवेशिकैरपि।
शुभैः सुरक्षणैश्चापि स्तोष्या एव द्विजास्तथा।
एतदेव परं गुह्यमलोभेन समाचर॥ ॥ 13-160-46(87620)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः॥ 160 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-160-1 अहिंसितमहिंसा॥ 7-160-2 तपसः कृच्छ्रचान्द्रायणादेर्बलादन्यत्किं बलवत्तरं विदितं न किमप्यपितु तपसस्तपसां मध्ये यत्परम्॥ 7-160-3 लोको भोग्यप्रदेशः॥ 7-160-5 ब्रह्मलोकं च सोगच्छत् इति क.पाठः॥ 7-160-9 एकरात्रादयः क्रतुविशेषाः॥ 7-160-10 नारीपुरं कन्यासमूहमदाम्॥ 7-160-12 चन्द्रो भूषणविशेषः। न तेनाहमागामित्यनुवर्तते॥ 7-160-13 एकैकशो ब्राह्मणाय दश गाः॥ 7-160-14 आप्तोर्यामः सोमयागः॥ 7-160-16 कर्काणां शुक्लाश्वानाम्॥ 7-160-19 पद्मिनः पद्मचिह्नान्॥ 7-160-21 दक्षिणारूपा यज्ञाङ्गभूता दक्षिणावयवाः॥ 7-160-23 निष्ककण्ठानां युद्धे जितानां राज्ञां सहस्रं विप्रेभ्यो विप्रवचनाद्दिक्षिणा अददं उत्सृष्टवान्॥ 7-160-28 शम्या पृथुबुध्नः काष्ठदण्डः। स बलेनाक्षिप्तो यावद्दूरं पतति तावद्देशो यस्य वेदिकाया भवति स शम्याक्षोपोयागः। देवान् साद्यस्कानामयुतैश्चापि यत्तत् इति झ.पाठः॥ 7-160-32 आर्कायणैः षोडशभिश्च इति झ.पाठः॥ 7-160-33 काञ्चनमयानां वृक्षाणां चूतानां नानावर्णरत्नखचितानां वनमित्यर्थः॥ 7-160-36 अग्नीनग्निचयनानि ॥ 7-160-39 गुहायां निहितं गोपितं गुह्यं यदनशनं तपसा अभ्यविन्दत् आज्ञासीत्। उशनस्तेजसा शुक्रस्य बलेन जाज्वल्यमानम्। तच्च वाक्यशेषात्सर्वबोगत्यागात्मकमनशनं सर्वभोगैर्ब्राह्मणानां सन्तर्पणं च। साधयामासमित्यार्षम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|